|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.15. अध्यायः 015
Mahabharata - Sabha Parva - Chapter Topics
राजसूयविषये श्रीकृष्णयुधिष्ठिरभीमानां संवादः॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
युधिष्ठिर उवाच।
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि॥ 2-15-1(11954)
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः।
न च साम्राज्यमाप्तास्ते सम्रादशब्दो हि कृच्छ्रभाक्। 2-15-2(11955)
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते॥ 2-15-3(11956)
विशाला बहुला भूमिर्बहुरत्नसमाचिता।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह॥ 2-15-4(11957)
शममेव परं मन्ये शमात्क्षेमं भवेन्मम।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः॥ 2-15-5(11958)
एवमेते हि जानन्ति कुले जाता मनस्विनः।
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन। 2-15-6(11959)
वयं यैव महाभाग जरासन्धभयात्तदा।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ॥ 2-15-7(11960)
अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते॥ 2-15-8(11961)
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव।
अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः॥ 2-15-9(11962)
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः॥ 2-15-10(11963)
भीम उवाच॥ 2-15-11x(1403)
अनारम्भपरो राजा वल्मीक इव सीदति।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति॥ 2-15-11(11964)
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम्।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान्॥ 2-15-12(11965)
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये।
मागधं साधयिष्याम इष्टिं त्रय इवाग्रयः॥ 2-15-13(11966)
`त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराद।
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा'॥ 2-15-14(11967)
कृष्ण उवाच। 2-15-15x(1404)
अर्थानारभते बालो नानुबन्धमवेक्षते।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्॥ 2-15-15(11968)
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः॥ 2-15-16(11969)
ऋद्ध्या मरुत्तस्तान्पश्च सम्राजस्त्वनुशुश्रुम।
`सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे'॥ 2-15-17(11970)
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर।
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः॥ 2-15-18(11971)
बार्हद्रथो नरासन्धस्तद्विद्धि भरतर्षभ।
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः॥ 2-15-19(11972)
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः॥ 2-15-20(11973)
रत्नभाजो हि राजानो जरासन्धमुपासते।
न च तुष्यति तेनापि बाल्यादनयमास्थितः॥ 2-15-21(11974)
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात्।
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित्॥ 2-15-22(11975)
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान्।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति॥ 2-15-23(11976)
`तण्डुलप्रस्थके राजा कपर्दिनमुपासते'।
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे।
पशूनामिव प्रमृष्टानां राज्ञां पशुपतेर्गृहे। 2-15-24(11977)
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम्॥ 2-15-25(11978)
षडशीतिः समानीताः शेषा राजंश्चतुर्दश।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते॥ 2-15-26(11979)
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्।
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत्॥ ॥ 2-15-27(11980)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि पञ्चदशोऽध्यायः॥ 25॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-15-18 युधिष्ठिर धर्मार्थनयलक्षणैः सहिता प्राप्तिः पालनं निग्राह्यलक्षणं साम्रा ज्यं च तेऽस्ति ॥ 2-15-19 बार्हद्रथं जरासन्धं तं विद्धि इति क. घ.पाठः॥ 2-15-22 बलात्प्रधानपुरुषः जरासन्धः पुरुषतः पुरुषेषु अभागः अस्वीकृतः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|